लोकाभिरामं रणरंगधीरं, राजीवनेत्रं रघुवंशनाथम्।

कारुण्यरूपं करुणाकरं तं, श्रीरामचन्द्रं शरणं प्रपद्ये॥